Sanskrit vyakaran

Tuesday, 31 October 2017

प्रियबन्धव:!
              भगवत: श्रीकृष्णस्य मुखपद्मात् विनि:सृता श्रीमद्भगवद्गीता भारतीयसंस्कृते: सारसर्वस्वभूता अस्ति । "गीता अध्येतव्या" इति सर्वस्य अपि जनस्य इच्छा भवति एव । भगवता कृष्णेन गीता उक्ता अस्ति संस्कृतभाषया । संस्कृतज्ञानाभावे गीताया: अवगमनं क्लेशाय एव । अत: गीताया: माध्यमेनैव संस्कृतभाषाया: अभ्यास: यथा कर्तुं शक्यते तादृश: कश्चन पाठ्यक्रम: संस्कृतभारत्या: कल्पित: अस्ति यस्य च प्रथमभाग: अस्ति एतत् गीतासोपानं नाम ।प्रतिदिनं संस्कृताभ्यासाय स्वल्पं समयं रक्षन्तु,तस्मिन् समये तदेव कार्यं कुर्वन्तु । तेन भवताम् अध्ययनं व्यवस्थितं भविष्यति । शुभं भवतु ।

https://youtu.be/ONPxhmcdhak


Subscribe इति कुर्वन्तु मे निवेदनमस्ति ।

No comments: