इदानींतनकाले---------
▪आयुषः चत्वारिंशत् वर्षेभ्यः अनन्तरं कृतविद्यः अकृतविद्यश्च समानौ एव भवतः।(कदाचित् अनधीतः एव अधिकं धनम् अर्जयति।)
▪आयुषः पञ्चाशत् वर्षेभ्यः अनन्तरं सुन्दरः तथा च कुरूपः इत्यनयोः भेदःएव नश्यति। उभावपि समानौ भवतः।(जनः कियान् अपि सुन्दरः स्यात् केशाः पलिताः भवन्त्येव तथा च नेत्रे परितः कृष्णवलये गोपायितुं नैव शक्नोति।)
▪आयुषः षष्टेः अनन्तरं कार्यालये अधिकारिस्थानं तथा च सेवकस्थानम् इत्यनयोः भेदः अपि न अवशिष्यते।(कार्यालयसेवकः अपि सेवानिवृत्यनन्तरम् अधिकारिणा सह मेलनं परिहरति।)
▪आयुषः सप्ततेः अनन्तरं मम प्रासादः अथवा सामान्यगृहं वा एतादृशः विचारः अपि मनसि न उत्पद्यते। उभौ अपि समानौ एव।( सन्धिवातव्याधेः प्रकोपस्य कारणात् यदा चलनवलनं कष्टकारकं भवति तदा उपवेष्टुं यावती भूमिः आवश्यकी तावत्या एव अलम्।)
▪अशीतेः अनन्तरं समीपे बहुधनं अस्ति अथवा नास्ति उभयमपि समानम् एव।(सत्यपि धने तस्य व्ययः कुत्र कथं वा करणीयः एषः प्रश्नः।)
▪आयुषः नवतिः अतिक्राम्यते चेत् ( अभिनन्दनानि तदर्थम्।)
शयनं तथा उत्थानम् अनयोरपि भेदः नष्टः भवति।(उत्थाय किं करणीयम् इति गहनप्रश्नः।)
इतोपि शतम् उल्लङ्घयितुम् इष्यते वा?
एकं मनसि धारयितव्यम्।आयुषः दीर्घं दूरं क्रान्तव्ये सति वयं सर्वे समानाः एव। तर्हि आगच्छन्तु जनाः, स्पर्धावृत्तिं तज्जन्यचिन्तां च विहाय आयुषः आनन्दम् अनुभवन्तु।

No comments:
Post a Comment