संस्कृतभारत्याः विषये
संस्कृतभारत्या चालितानां विविधानाम् उपक्रमाणां विषये किञ्चित् कथयामि।-------------------
१) सम्भाषणशिबिरम्। -
एतत् शिबिरं दश दिनानि प्रत्येकं दिने होराद्वयं यावत् भवति।
शिबिरं निःशुल्कम् ।
ये संस्कृतं पूर्वं जानन्ति तथा च ये नैव जानन्ति तेषाम् उभयविधजनानां कृते सम्भाषणशिबिरे सहभागः ग्रहीतुं शक्यः।
तदा तदा संस्कृतभारतीकार्यकर्तृद्वारा एतेषाम् आयोजनं क्रियते।
एते कार्यकर्तारः स्ववृत्तिं चालयित्वा शिबिराणि अपि चालयन्ति।अतः स्वसमयानुकूलं तैः शिबिराणि आयोज्यन्ते। एतेषां शिबिराणाम् आयोजनस्य सूचना व्हॉट्सैप् इत्यादिसम्पर्कसाधनैः दीयते।
अतः ये जनाः शिबिरे सहभागं वोढुम् इच्छन्ति तैः स्थानीय-संस्कृतभारतीकार्यकर्तृभिः सह सदा सम्पर्कः रक्षणीयः।
उदाहरणार्थं नाशिकनगरे अस्माकं भगिनी सौ.सङ्गीताअम्भोरेमहोदया तथा च अन्ये कार्यकर्तारः प्रत्येकं मासे त्रिवारम्- १तः१०,११तः२० तथा च २१तः३० दिनाङ्कपर्यन्तम् प्रायः आवर्षं शिबिराणि चालयन्ति।
ये एतादृशशिबिरेषु भागं ग्रहीतुं न शक्नुवन्ति तेषां कृते अपरः एकः पर्यायः अस्ति।
वाराणसी तथा देहली इति स्थानद्वये राष्ट्रियसंस्कृतसंस्थानं तथा संस्कृतभारतीद्वारा आवर्षं १५ दिनात्मकानि सम्भाषणशिबिराणि चाल्यन्ते। शिबिरस्य नाम संवादशाला इति।तथापि अस्य शिबिरस्य कृते संस्कृतस्य किञ्चित् पूर्वज्ञानम् आवश्यकम् अस्ति। देहल्यां मेमासतः फेब्रुवारीपर्यन्तं तथा वाराणस्यां पूर्णवर्षं प्रत्येकं मासे द्विवारं - नाम १तः१५ तथा १६तः३०दिनाङ्कपर्यन्तं- एतत् निवासिशिबिरं भवति। देहल्याम् आवासभोजनादिव्यवस्थायाः कृते ७०० रुप्यकाणि तथा वाराणस्यां ५०० रुप्यकाणि शुल्करूपेण स्वीक्रियन्ते।पाठनं तु निःशुल्कमेव अस्ति।संवादशालायाः आवेदनपत्राणि www.samskrit bharati.in इति संस्कृतभारत्याः जालस्थाने प्राप्यन्ते।तैः पूरयित्वा प्रेषणीयानि।
कार्यालयगन्तारः(office-goers) तथा शिक्षकाः मेमासे विरामदिनेषु संवादशालां गन्तुं शक्नुयुः।
यतो हि महाराष्ट्रे अष्टमनवमीकक्ष्ययोः नूतनपाठ्यक्रमे सम्भाषणसंस्कृतस्यैव समावेशः कृतः अस्ति अतः संस्कृतशिक्षकैः अनिवार्यतया सम्भाषणस्य प्रशिक्षणं स्वीकर्तव्यमेव।स्वस्य वृत्तिदृष्ट्या वृद्ध्यर्थमपि (professional development) एतस्य अत्यन्तावश्यकता।
२)भाषाबोधनवर्गः।
यैः सम्भाषणशिबिरे सहभागः ऊढः तेषां कृते अग्रिमसोपानम् अस्ति दिनत्रयं चाल्यमानः एषः वर्गः।संस्कृतव्याकरणस्य सम्भाषणोपयोगिदृष्ट्या किञ्चित् अधिकाभ्यासः इति एतस्य उद्दिष्टम्।
३) सम्भाषणशिबिरचालक-प्रशिक्षणवर्गः।
ये सम्भाषणशिबिरे तथा भाषाबोधनवर्गे सहभागं गृहीत्वा सम्भाषणसमर्थाः तथा च व्याकरणस्य सम्यज्ज्ञातारः जाताः तेषां कृते *दशदिनात्मकं सम्भाषणशिबिरं कथं चालनीयम्" इत्यस्य प्रशिक्षणम् अस्मिन् वर्गे दीयते।
एषः वर्गः महाराष्ट्रे प्रत्येकं मेमासे आयोजितः भवति। एतत् दशदिनात्मकं निवासिशिबिरम्। एतस्मिन् सहभागं ऊढ्वा वयं स्वयं सम्भाषणशिबिरचालनार्थं समर्थाः भवामः।
अस्मिन्वर्षे मेमासस्य १० तः २० दिनाङ्कपर्यन्तम् एतत् शिबिरं नाशिकसमीपे त्र्यम्बकेश्वरे अभवत्।
एतेषु विविधशिबिरेषु सहभागिनः भूत्वा सर्वैः स्वकीयसम्भाषणसामर्थ्यं वर्धनीयम्। इत्यलम्।

No comments:
Post a Comment