Sanskrit vyakaran
Saturday, 4 November 2017
Friday, 3 November 2017
Thursday, 2 November 2017
शिव उत माधवः? कस्त्वम्?
*"शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः"* इति शिवकेशवयोरैक्यं प्रतिदिनमपि संध्यायां उच्यन्ते। शिवविष्ण्वोःअभेदं अयं मन्त्रः प्रतिपाद्यते।तद्वदेव हरिहरौ, रामलिङ्गेश्वरौ, रामेश्वरौ, शंकरनारायणौ एतानि नामान्यपि अभेदं प्रतिपाद्यन्ते।
एकदा अमर्त्यानां संदेहो सञ्जातः" रामेश्वरमिति पदस्य समासःक "इति। व्याकरणे समासेषु ' कर्मधारय' 'तत्पुरुष''बहुव्रीहि' इति वर्तन्ते।
राजसेवकः इत्युक्ते तत्पुरुषसमासो भवति। राज्ञः सेवकः इतयर्थः भवति। षष्ठीविभक्त्यर्थः अस्मिन् वर्तते इति कारणात् अयं षष्ठीतत्पुरुषसमासो भवति।
'नीलोत्पलम्' अर्थात् नीलिवर्णयुत उत्पलमिति। इदं कर्मधारयमिति वदन्ति।
'दण्डपाणिः'अर्थात् दण्डः पाणौ यस्य सः ।बहुव्रीहिःभवति। दण्डपाणि शब्दस्य विभिन्ना अर्थाः वर्ततन्ते। यथा सुब्रह्मण्यः, कालभैरवः ... इत्यदयः। दण्ड इति शब्दात् पाणि इति शब्दादपि भिन्नोऽर्थः द्योतते बहुव्रीहौ। 'बहुव्रीहिः' इत्यस्य पदस्य अर्थ एव बहुफलसम्पन्नं धान्यसस्यमिति।
' रामेश्वरम्' कस्समासो भवति? तत्पुरुषो वा? ' रमस्य ईश्वरः' इत्युक्ते सति ' रामस्य प्रभुरीश्वरः'इति अर्थो द्योतते। तदा तत्र शिवाधिक्यं भवति। शिवधनुर्भङ्गः कृत रामः शिवात् कथं न्यूनो भवति? सर्वलोकशरण्यो रामः , तस्मादुपरि पुनरीश्वरो वा? इमान् सन्देहाने कः समाधत्ते? देवाः विष्णुमेव प्रक्ष्यामः इति विचार्य वैकुण्ठं प्रति अगमन्। ' अतिस्वल्पविषयमधिकृत्य बहुदूरं आगच्छन्ति? एतत्पदस्यवलोकनेनैव तत्तपुरुष इति ज्ञायते। 'रामस्य ईश्वरः'एव इति विष्णुना प्रोक्तम्।किन्तु इतोऽपि देवाः न शंकानिवारिताः।
"विष्णुः कल्याणपरिपूर्णो भवति। कल्याणगुणेषु विनयोऽपि वर्तते। विनयसम्पन्नात्, अहंभावरहिताद्वा , ह्रिया वा विष्णुना एवं कथितम्। भवतु , शिवं प्रक्ष्यामः, सः किं कथयिष्तीति द्रक्ष्यामः" इति विचिन्त्य' विष्णुस्तत्पुरुषं ब्रूते' ' विष्णुः, रामेश्वरपदम्, तत्पुरुषसमासः इति चिन्तयन्तस्सन्तः कैलासमगच्छन्।
नाकलोकवासिनां सन्देहं श्रुतवान् नागाभरणधारी। ' भोः! अस्मिन् सन्देहस्य अवकाश कुत्रास्ति? रामेश्वरपदं बहुव्रीहिः भवति। राम एव ईश्वरः यस्य सः रामेश्वरः' इति समधत्तः ईश्वरः।
व्याकरणविषये शिवकेशवयोर्मध्ये एवंप्रकारेण भेदाभिप्रायाः वर्तन्ते इति देवाः स्वप्ने अपि न ऊह्यन्ते। रामेश्वरपदे तयोः नाम प्रसक्तिरस्तीति कारणात् मध्यवर्तिनं पृष्ट्वा शंकानिवारणं कुर्मः इति ' बहुव्रीहिं महेश्वरः', शिवः बहुव्रीहिसमासः इति उक्तस्सन्तः ब्रह्माणं दर्शितवन्तः। देवतानां सन्देहं, प्रचलितवृत्तान्तम्यावत् प्रशान्ततया आकर्ण्य " अयं तत्पुरुषसमसो नास्ति, बहुव्रीहिरपि नास्ति कर्मधारय इति, वीरराघव इत्युक्ते वीरः एकः राघवः अन्यो वा? नास्ति खलु! तद्वदेव रामेश्वर इत्युक्ते रामः एकः ईश्वरः अन्यो वा? रामएव ईश्वरः, ईश्वर एव रामः अर्थात् रामश्चासौ ईश्वरः- रामेश्वरः कर्मधारय एव भवति" इति शासनं क्रियते ब्रह्मणा।
*विष्णुस्तत्पुरुषं ब्रूते बहुव्रीहिं महेश्वरः।*
*उभयोरप्यतृप्तानामत्मभूः कर्मधारय।।*
आत्मभूः अर्थात् ब्रह्मा, देवानां प्रति शिकेशवयोरेकमेव परतत्त्वमस्तीति ब्रह्मा बोधयामास।
🌺🌼🌺कञ्चिपरमाचार्यवैभवात् अनूदितम् मया🙏🙌
बाला...✍

Tuesday, 31 October 2017
प्रियबन्धव:!
भगवत: श्रीकृष्णस्य मुखपद्मात् विनि:सृता श्रीमद्भगवद्गीता भारतीयसंस्कृते: सारसर्वस्वभूता अस्ति । "गीता अध्येतव्या" इति सर्वस्य अपि जनस्य इच्छा भवति एव । भगवता कृष्णेन गीता उक्ता अस्ति संस्कृतभाषया । संस्कृतज्ञानाभावे गीताया: अवगमनं क्लेशाय एव । अत: गीताया: माध्यमेनैव संस्कृतभाषाया: अभ्यास: यथा कर्तुं शक्यते तादृश: कश्चन पाठ्यक्रम: संस्कृतभारत्या: कल्पित: अस्ति यस्य च प्रथमभाग: अस्ति एतत् गीतासोपानं नाम ।प्रतिदिनं संस्कृताभ्यासाय स्वल्पं समयं रक्षन्तु,तस्मिन् समये तदेव कार्यं कुर्वन्तु । तेन भवताम् अध्ययनं व्यवस्थितं भविष्यति । शुभं भवतु ।
https://youtu.be/ONPxhmcdhak
Subscribe इति कुर्वन्तु मे निवेदनमस्ति ।

Sunday, 29 October 2017
इदानींतनकाले---------
▪आयुषः चत्वारिंशत् वर्षेभ्यः अनन्तरं कृतविद्यः अकृतविद्यश्च समानौ एव भवतः।(कदाचित् अनधीतः एव अधिकं धनम् अर्जयति।)
▪आयुषः पञ्चाशत् वर्षेभ्यः अनन्तरं सुन्दरः तथा च कुरूपः इत्यनयोः भेदःएव नश्यति। उभावपि समानौ भवतः।(जनः कियान् अपि सुन्दरः स्यात् केशाः पलिताः भवन्त्येव तथा च नेत्रे परितः कृष्णवलये गोपायितुं नैव शक्नोति।)
▪आयुषः षष्टेः अनन्तरं कार्यालये अधिकारिस्थानं तथा च सेवकस्थानम् इत्यनयोः भेदः अपि न अवशिष्यते।(कार्यालयसेवकः अपि सेवानिवृत्यनन्तरम् अधिकारिणा सह मेलनं परिहरति।)
▪आयुषः सप्ततेः अनन्तरं मम प्रासादः अथवा सामान्यगृहं वा एतादृशः विचारः अपि मनसि न उत्पद्यते। उभौ अपि समानौ एव।( सन्धिवातव्याधेः प्रकोपस्य कारणात् यदा चलनवलनं कष्टकारकं भवति तदा उपवेष्टुं यावती भूमिः आवश्यकी तावत्या एव अलम्।)
▪अशीतेः अनन्तरं समीपे बहुधनं अस्ति अथवा नास्ति उभयमपि समानम् एव।(सत्यपि धने तस्य व्ययः कुत्र कथं वा करणीयः एषः प्रश्नः।)
▪आयुषः नवतिः अतिक्राम्यते चेत् ( अभिनन्दनानि तदर्थम्।)
शयनं तथा उत्थानम् अनयोरपि भेदः नष्टः भवति।(उत्थाय किं करणीयम् इति गहनप्रश्नः।)
इतोपि शतम् उल्लङ्घयितुम् इष्यते वा?
एकं मनसि धारयितव्यम्।आयुषः दीर्घं दूरं क्रान्तव्ये सति वयं सर्वे समानाः एव। तर्हि आगच्छन्तु जनाः, स्पर्धावृत्तिं तज्जन्यचिन्तां च विहाय आयुषः आनन्दम् अनुभवन्तु।

संस्कृतभारत्याः विषये
संस्कृतभारत्या चालितानां विविधानाम् उपक्रमाणां विषये किञ्चित् कथयामि।-------------------
१) सम्भाषणशिबिरम्। -
एतत् शिबिरं दश दिनानि प्रत्येकं दिने होराद्वयं यावत् भवति।
शिबिरं निःशुल्कम् ।
ये संस्कृतं पूर्वं जानन्ति तथा च ये नैव जानन्ति तेषाम् उभयविधजनानां कृते सम्भाषणशिबिरे सहभागः ग्रहीतुं शक्यः।
तदा तदा संस्कृतभारतीकार्यकर्तृद्वारा एतेषाम् आयोजनं क्रियते।
एते कार्यकर्तारः स्ववृत्तिं चालयित्वा शिबिराणि अपि चालयन्ति।अतः स्वसमयानुकूलं तैः शिबिराणि आयोज्यन्ते। एतेषां शिबिराणाम् आयोजनस्य सूचना व्हॉट्सैप् इत्यादिसम्पर्कसाधनैः दीयते।
अतः ये जनाः शिबिरे सहभागं वोढुम् इच्छन्ति तैः स्थानीय-संस्कृतभारतीकार्यकर्तृभिः सह सदा सम्पर्कः रक्षणीयः।
उदाहरणार्थं नाशिकनगरे अस्माकं भगिनी सौ.सङ्गीताअम्भोरेमहोदया तथा च अन्ये कार्यकर्तारः प्रत्येकं मासे त्रिवारम्- १तः१०,११तः२० तथा च २१तः३० दिनाङ्कपर्यन्तम् प्रायः आवर्षं शिबिराणि चालयन्ति।
ये एतादृशशिबिरेषु भागं ग्रहीतुं न शक्नुवन्ति तेषां कृते अपरः एकः पर्यायः अस्ति।
वाराणसी तथा देहली इति स्थानद्वये राष्ट्रियसंस्कृतसंस्थानं तथा संस्कृतभारतीद्वारा आवर्षं १५ दिनात्मकानि सम्भाषणशिबिराणि चाल्यन्ते। शिबिरस्य नाम संवादशाला इति।तथापि अस्य शिबिरस्य कृते संस्कृतस्य किञ्चित् पूर्वज्ञानम् आवश्यकम् अस्ति। देहल्यां मेमासतः फेब्रुवारीपर्यन्तं तथा वाराणस्यां पूर्णवर्षं प्रत्येकं मासे द्विवारं - नाम १तः१५ तथा १६तः३०दिनाङ्कपर्यन्तं- एतत् निवासिशिबिरं भवति। देहल्याम् आवासभोजनादिव्यवस्थायाः कृते ७०० रुप्यकाणि तथा वाराणस्यां ५०० रुप्यकाणि शुल्करूपेण स्वीक्रियन्ते।पाठनं तु निःशुल्कमेव अस्ति।संवादशालायाः आवेदनपत्राणि www.samskrit bharati.in इति संस्कृतभारत्याः जालस्थाने प्राप्यन्ते।तैः पूरयित्वा प्रेषणीयानि।
कार्यालयगन्तारः(office-goers) तथा शिक्षकाः मेमासे विरामदिनेषु संवादशालां गन्तुं शक्नुयुः।
यतो हि महाराष्ट्रे अष्टमनवमीकक्ष्ययोः नूतनपाठ्यक्रमे सम्भाषणसंस्कृतस्यैव समावेशः कृतः अस्ति अतः संस्कृतशिक्षकैः अनिवार्यतया सम्भाषणस्य प्रशिक्षणं स्वीकर्तव्यमेव।स्वस्य वृत्तिदृष्ट्या वृद्ध्यर्थमपि (professional development) एतस्य अत्यन्तावश्यकता।
२)भाषाबोधनवर्गः।
यैः सम्भाषणशिबिरे सहभागः ऊढः तेषां कृते अग्रिमसोपानम् अस्ति दिनत्रयं चाल्यमानः एषः वर्गः।संस्कृतव्याकरणस्य सम्भाषणोपयोगिदृष्ट्या किञ्चित् अधिकाभ्यासः इति एतस्य उद्दिष्टम्।
३) सम्भाषणशिबिरचालक-प्रशिक्षणवर्गः।
ये सम्भाषणशिबिरे तथा भाषाबोधनवर्गे सहभागं गृहीत्वा सम्भाषणसमर्थाः तथा च व्याकरणस्य सम्यज्ज्ञातारः जाताः तेषां कृते *दशदिनात्मकं सम्भाषणशिबिरं कथं चालनीयम्" इत्यस्य प्रशिक्षणम् अस्मिन् वर्गे दीयते।
एषः वर्गः महाराष्ट्रे प्रत्येकं मेमासे आयोजितः भवति। एतत् दशदिनात्मकं निवासिशिबिरम्। एतस्मिन् सहभागं ऊढ्वा वयं स्वयं सम्भाषणशिबिरचालनार्थं समर्थाः भवामः।
अस्मिन्वर्षे मेमासस्य १० तः २० दिनाङ्कपर्यन्तम् एतत् शिबिरं नाशिकसमीपे त्र्यम्बकेश्वरे अभवत्।
एतेषु विविधशिबिरेषु सहभागिनः भूत्वा सर्वैः स्वकीयसम्भाषणसामर्थ्यं वर्धनीयम्। इत्यलम्।

Saturday, 28 October 2017
व्यावहारिकशब्दा:
गृहविभाग:
१.प्रासाद: --- महल ।
२.भोजनप्रकोष्ठ: ---- भोजनशाला
३.शौचालय: ---- शौचालय ।
४.स्तम्भः ---- खम्भा ।
५.कूपः ---- कुँआ ।
६.अट्टः ---- ऊपरी मँजिल ।
७.अन्तरट्ट: ---- छज्जा ।
८.मृच्छद: ----- मिट्टी वाली छत ।
९.छदि:---- छत ।
१०.वृत्तिः ---- बाड़ ।
११.वितर्दि: ---- बाल्कनी ।
१२.पाकशाला ---- रसोई ।
१३.द्वारश्रृङ्खला ----- शृङ्खला ।
१४.देहली -- देहली ।
१५.पूजागृहम् ---- पूजागृह ।
१६.द्वारम् ------ दरवाजा ।
१७.वातायनम् ---- खिड़की ।
१८.सोपानम् ---- सीढ़ियाँ ।
१९.मुखद्वारम् ----- मुख्य द्वार ।
२०.तोरणम् ---- तोरण ।
गृहविभाग:
१.प्रासाद: --- महल ।
२.भोजनप्रकोष्ठ: ---- भोजनशाला
३.शौचालय: ---- शौचालय ।
४.स्तम्भः ---- खम्भा ।
५.कूपः ---- कुँआ ।
६.अट्टः ---- ऊपरी मँजिल ।
७.अन्तरट्ट: ---- छज्जा ।
८.मृच्छद: ----- मिट्टी वाली छत ।
९.छदि:---- छत ।
१०.वृत्तिः ---- बाड़ ।
११.वितर्दि: ---- बाल्कनी ।
१२.पाकशाला ---- रसोई ।
१३.द्वारश्रृङ्खला ----- शृङ्खला ।
१४.देहली -- देहली ।
१५.पूजागृहम् ---- पूजागृह ।
१६.द्वारम् ------ दरवाजा ।
१७.वातायनम् ---- खिड़की ।
१८.सोपानम् ---- सीढ़ियाँ ।
१९.मुखद्वारम् ----- मुख्य द्वार ।
२०.तोरणम् ---- तोरण ।
अनुशासनम्
शासनमनु अनुशासनम् अर्थात शासनेन निर्मितानि नियमनि पालयन्तः लोकाः अनुशासिताः कथ्यते । अनुशासनभावे समाजे उच्छृंखलता आगच्छति । सर्वे स्वैराचरं कुर्वन्तः न कथमपि आत्मोन्नतिम् देशोन्नतिञ्च कर्तुम् समर्थाः । पारिवारिकी व्यवस्था नक्ष्यति । विद्यार्थिनः उद्दण्डाः भविष्यन्ति, वणिजः, अधिकं लाभमेष्यन्ति अतएवानुशासनम् देशस्य समाजस्य, मनुष्याणां छात्राणाञ्च कृते परमावश्यकमस्ति । अस्माकं व्यवहारेषु अपि अनुशासनम् दृश्यते । छात्राणाम् कृते विद्यालय एवानुशासनशिक्षा-केन्द्रमस्ति । अस्मिन्नेव काले छात्राणाम् मनःसु यः प्रभावः सम्पद्यते सः स्थायी भवति । बाल्ये अनुशासनहीनाः जनाः प्राप्ते वयसि अनुशासिता भविष्यन्तीति दुराशामात्रम् ।

Friday, 27 October 2017
संवाद:
****************
शीला --- लते ! त्वं किं करोषि ?
लता ---- अहं पाठं पठामि । त्वम् ------?
शीला ---- अहम् अन्यत्र गच्छामि ।
लता ---- कुत्र गच्छसि ?
शीला --- विपणिं गच्छामि ।
लता -- कदा ?
शीला --- इदानीम् एव ।
लता --- किमर्थम् ?
शीला ---- वस्तूनि आवश्यकानि । अत:
गच्छामि ।
लता --- वस्तूनि कुत: आनयसि ?
शीला ---- विपणिमध्ये केशवलाल ------
आपणत: आनयामि ।
लता -- मम अपि वस्तूनि आवश्यकानि । अहमपि आपणम् आगच्छामि ।
किञ्चित् कालम् अत्र उपविशतु । पश्चात्
गच्छाव: ।
शीला --- तथैव भवतु ।
************************************

Saturday, 7 January 2017
*प्रौढरचनानुवाद कौमुदी*
[शब्दकोष -- 25]
(क) राम: (राम), पातोत्पात :( उत्थान-पतन),
सद्वृत्त:(सदाचारी) , दुराचार:(दुराचारी, वैधेय:(मूर्ख), बुभुक्षित:(भूखा),मल्ल:(पहलवान) ।(7)।
(ख) भू(होना),अनुभू(अनुभव करना),प्रभू( 1प्रकट होना ,
2समर्थ होना, 3अधिकार होना, 4बराबर होना, 5 समाना), पराभू(हराना), परिभू(तिरस्कृत करना) , अभिभू( हराना दबाना), सम्भू(उत्पन्न होना) , उद्भू(पैदा होना) , आविर्भू(प्रकट होना), तिरोभू( छिप जाना), प्रादुर्भू(
जन्म लेना) , अर्ह्( योग्य होना), परिहस्( हँसी करना), प्रलप्( बकवाद करना)।(14)।
(ग) परमार्थत: ( सत्य ठीक) , नाम( निश्चय से)।2।
(घ), मधुरम्( मीठा ), तीव्रम( तेज
(2) ।
व्याकरण ( राम, लट्, प्रथमा
द्वितीया)
¹ राम शब्द के पूरे रूप स्मरण करो ।
(1) राम(राम)
राम: रामौ रामा:
रामम् " रामान्
रामेण रामाभ्याम् रामै:
रामाय " रामेभ्य:
रामात् " "
रामस्य रामयो: रामाणाम्
रामे " रामेषु
हे राम हे रामौ हे रामा:
² भू तथा हस् धातुओं के रूप स्मरण करो ।
(1) भू ( होना) लट् ( वर्तमान)
भवति भवत: भवन्ति
भवसि भवथ: भवथ
भवामि भवाव: भवाम:
(2) हस् (हँसना) (भू के तुल्य) ।
हसति हसत: हसन्ति
हससि हसथ: हसथ
हसामि हसाव: हसाम:
नियम 1---कर्तृवाच्य में कर्ता
( व्यक्तिनाम, वस्तुनाम आदि
में प्रथमा होती है और कर्मवाच्य में कर्म में प्रथमा होती है । जैसे --राम: पठति
अश्वो धावति । रामेण पाठ:
पठ्यते ।
नियम 2-- किसी के अभिमुखी करण तथा संमुखीकरण में ( सम्बोधन करने में) सम्बोधन विभक्ति होती है । जैसे --हे राम, हे कृष्ण ।
नियम3-- ( कर्तुरीप्सततमं कर्म) कर्ता जिसको ( व्यक्ति, वस्तु या क्रिया को)
विशेष रूप से चाहता है, उसे कर्म कहते हैं ।
नियम 4-- ( कर्मणि द्वितीया
कर्म में द्वितीया विभक्ति होती है। जैसे-- स पुस्तकं पठति । स रामं पश्यति । ते प्रश्नं पृच्छन्ति ।
नियम5-- (अभित: परित: समयानिकषाहाप्रतियोगेsपि
अभित:, परित:, समया, निकषा, हा और प्रति के साथ द्वितीया होती है । जैसे --नृपम् अभित: परित:वा ।
ग्रामं समया निकषा वा ( गाँव के समीप) । बुभुक्षितं न प्रतिभाति किचिंत् ।
नियम6--( उभसर्वतसो: कार्या0)उभयत: सर्वत:, धिक् उपर्युपरि, अधोsध: अध्यधि के साथ द्वितीया होती है । जैसे --कृष्णमुभयतो गोपा: ।नृपं सर्वो जना: । धिक् नास्तिकम् ।
नियम7-- गति ( चलना हिलना, जाना) अर्थ की धातुओं के साथ द्वितीया होती है । गत्यर्थ का आलंकारिक प्रयोग होगा तो भी द्वितीया होगी ।जैसे-- गृहं गच्छति । वनं विचरति ।
तृप्तिं ययौ । मम स्मृति यात:
उमाख्यां जगाम । निद्रां ययौ
नियम8--- अकर्मक धातुएँ उपसर्ग पहले लगने से प्राय:
अर्थानुसार सकर्मक हो जाती हैं, उनके साथ द्वितीया होगी । जैसे-- हर्षमनुभवति । स खलम् अभिभवति । स शत्रुं परिभवति पराभवति वा । वृक्षमारोहति । दिवमुत्पतति
स्वामिचित्तमनुवर्तते ।
नियम9---- स्मृ धातु के साथ
साधारण स्मरण में द्वितीया
होती है। खेदपूर्वक स्मरण में
षष्ठी होती है । जैसे-- पाठं स्मरति (वह पाठ याद करता है) । बाल: मातु: स्मरति ( बालक खेद के साथ माता को स्मरण करता है ।)
क्रमश: ............

Subscribe to:
Posts (Atom)